आकर्षादित्यादि। श्लोकवार्तिकमिदम्--"प्राग्वहतेष्ठक्" इत्यादौ ठगिति वा ष्ठगिति छेद इति संशयनिवृत्त्यर्थम् "आकर्षात्ष्ठ"लिति सूत्रभाष्ये पठितम्। तत्र आकर्षादित्यनेन "आकर्षात्ष्ठ"लिति सूत्रं विवक्षितम्। "पर्पादिभ्यः" इत्यनेन "पर्पादिभ्यः ष्ठ न्निति सूत्रं विपक्षितम्। "भस्त्रादिभ्यः" इत्यनेन "भस्त्रादिभ्यः ष्ठ"न्निति सूत्रं विवक्षितम्। कुसीदसूत्रादित्यनेन "कुसीददशैकादशात् ष्ठन्ष्ठचौ" इति सूत्रं विवक्षितम्। आवसथादित्यनेन "आवसथात्ष्ठ"लिति सूत्रं विवक्षितम्। किसरादेरित्यनेन "किसरादिभ्यः ष्ठ"न्निति सूत्रं विवक्षितम्। "प्राग्वहतेष्ठक्" इत्यधिकारे एतैः सूत्रैर्विहिताः षट् प्रत्ययाः षित इत्यर्थः। ननु "कुसीदे"ति सूत्रे प्रत्ययद्वयविधानादेतत्सूत्रषट्कविहिता सप्त प्रत्यया लभ्यन्त इति षट् षित इति कथमित्यत आह--षडितीति। "ष"डित्यनेन सूत्राभिप्रायं षट्त्वं विवक्षितमिति भावः।
*****इति बालमनोरमायाम् प्राग्वहतीयाः।*****
अथ ठञधिकारः।
------------
आकर्षत्पर्पादेर्भस्त्रादिभ्यः कुसीदसूत्राच्च।कुसीदसूत्रादिति। "कुसीददशैकादशा"दिति सूत्रोपात्ताभ्यां प्रकृतिभ्यामित्यर्थः। इह "नौव्द्यचष्ठ"नित्यत्रेव येषां षकारः सांहितिक इति सम्भाव्यते तेषामेव गणने ष्ठलादेः षित्त्वामनार्षमिति भ्रमः स्यादतः श्र्लोकवार्तिककारः षित्प्रत्ययान्सर्वानपि पर्यजीगणत्।
ठकोऽवधिः समाप्तः।
इति तत्त्वबोधिन्यां ठगधिकारः।